देवी कवच/चण्डी कवच

देवी कवच/चण्डी कवच

देवी कवच विनियोग – ॐ अस्य श्रीदेव्या: कवचस्य ब्रह्मा ऋषि:, अनुष्टुप् छन्द:, ख्फ्रें चामुण्डाख्या महा-लक्ष्मी: देवता, ह्रीं ह्रसौं ह्स्क्लीं ह्रीं ह्रसौं अंग-न्यस्ता देव्य: शक्तय:, ऐं ह्स्रीं ह्रक्लीं श्रीं ह्वर्युं क्ष्म्रौं स्फ्रें बीजानि, श्रीमहालक्ष्मी-प्रीतये सर्व रक्षार्थे च पाठे विनियोग:। ऋष्यादि-न्यास – ब्रह्मर्षये नम: शिरसि, अनुष्टुप् छन्दसे नम: मुखे, ख्फ्रें चामुण्डाख्या महा-लक्ष्मी: देवतायै नम: हृदि, ह्रीं ह्रसौं ह्स्क्लीं ह्रीं ह्रसौं अंग-न्यस्ता देव्य: शक्तिभ्यो नम: नाभौ, ऐं ह्स्रीं ह्रक्लीं श्रीं ह्वर्युं क्ष्म्रौं स्फ्रें बीजेभ्यो नम: लिंगे, श्रीमहालक्ष्मी-प्रीतये सर्व रक्षार्थे च पाठे विनियोगाय नम: सर्वांगे। ध्यान- ॐ रक्ताम्बरा रक्तवर्णा, रक्त-सर्वांग-भूषणा। रक्तायुधा रक्त-नेत्रा, रक्त-केशाऽति-भीषणा।।1 रक्त-तीक्ष्ण-नखा रक्त-रसना रक्त-दन्तिका। पतिं नारीवानुरक्ता, देवी भक्तं भजेज्जनम्।।2 वसुधेव विशाला सा, सुमेरू-युगल-स्तनी। दीर्घौ लम्बावति-स्थूलौ, तावतीव मनोहरौ।।3 कर्कशावति-कान्तौ तौ, सर्वानन्द-पयोनिधी। भक्तान् सम्पाययेद् देवी, सर्वकामदुघौ स्तनौ।।4 खड्गं पात्रं च मुसलं, लांगलं च बिभर्ति सा। आख्याता रक्त-चामुण्डा, देवी योगेश्वरीति च।।5 अनया व्याप्तमखिलं, जगत् स्थावर-जंगमम्। इमां य: पूजयेद् भक्तो, स व्याप्नोति चराचरम्।।6 ।।मार्कण्डेय उवाच।। ॐॐॐ यद् गुह्यं परमं लोके, सर्व-रक्षा-करं नृणाम्। यन्न कस्यचिदाख्यातं, तन्मे ब्रूहि पितामह।।1 ।।ब्रह्मोवाच।। ॐ अस्ति गुह्य-तमं विप्र सर्व-भूतोपकारकम्। देव्यास्तु कवचं पुण्यं, तच्छृणुष्व महामुने।।2 प्रथमं शैल-पुत्रीति, द्वितीयं ब्रह्म-चारिणी। तृतीयं चण्ड-घण्टेति, कूष्माण्डेति चतुर्थकम्।।3 पंचमं स्कन्द-मातेति, षष्ठं कात्यायनी तथा। सप्तमं काल-रात्रीति, महागौरीति चाष्टमम्।।4 नवमं सिद्धि-दात्रीति, नवदुर्गा: प्रकीर्त्तिता:। उक्तान्येतानि नामानि, ब्रह्मणैव महात्मना।।5 अग्निना दह्य-मानास्तु, शत्रु-मध्य-गता रणे। विषमे दुर्गमे वाऽपि, भयार्ता: शरणं गता।।6 न तेषां जायते किंचिदशुभं रण-संकटे। आपदं न च पश्यन्ति, शोक-दु:ख-भयं नहि।।7 यैस्तु भक्त्या स्मृता नित्यं, तेषां वृद्धि: प्रजायते। प्रेत संस्था तु चामुण्डा, वाराही महिषासना।।8 ऐन्द्री गज-समारूढ़ा, वैष्णवी गरूड़ासना। नारसिंही महा-वीर्या, शिव-दूती महाबला।।9 माहेश्वरी वृषारूढ़ा, कौमारी शिखि-वाहना। ब्राह्मी हंस-समारूढ़ा, सर्वाभरण-भूषिता।।10 लक्ष्मी: पद्मासना देवी, पद्म-हस्ता हरिप्रिया। श्वेत-रूप-धरा देवी, ईश्वरी वृष वाहना।।11 इत्येता मातर: सर्वा:, सर्व-योग-समन्विता। नानाभरण-षोभाढया, नाना-रत्नोप-शोभिता:।।12 श्रेष्ठैष्च मौक्तिकै: सर्वा, दिव्य-हार-प्रलम्बिभि:। इन्द्र-नीलैर्महा-नीलै, पद्म-रागै: सुशोभने:।।13 दृष्यन्ते रथमारूढा, देव्य: क्रोध-समाकुला:। शंखं चक्रं गदां शक्तिं, हलं च मूषलायुधम्।।14 खेटकं तोमरं चैव, परशुं पाशमेव च। कुन्तायुधं च खड्गं च, शार्गांयुधमनुत्तमम्।।15 दैत्यानां देह नाशाय, भक्तानामभयाय च। धारयन्त्यायुधानीत्थं, देवानां च हिताय वै।।16 नमस्तेऽस्तु महारौद्रे ! महाघोर पराक्रमे ! महाबले ! महोत्साहे ! महाभय विनाशिनि।।17 त्राहि मां देवि दुष्प्रेक्ष्ये ! शत्रूणां भयविर्द्धनि ! प्राच्यां रक्षतु मामैन्द्री, आग्नेय्यामग्नि देवता।।18 दक्षिणे चैव वाराही, नैऋत्यां खड्गधारिणी। प्रतीच्यां वारूणी रक्षेद्, वायव्यां वायुदेवता।।19 उदीच्यां दिशि कौबेरी, ऐशान्यां शूल-धारिणी। ऊर्ध्वं ब्राह्मी च मां रक्षेदधस्ताद् वैष्णवी तथा।।20 एवं दश दिशो रक्षेच्चामुण्डा शव-वाहना। जया मामग्रत: पातु, विजया पातु पृष्ठत:।।21 अजिता वाम पार्श्वे तु, दक्षिणे चापराजिता। शिखां मे द्योतिनी रक्षेदुमा मूर्ध्नि व्यवस्थिता।।22 मालाधरी ललाटे च, भ्रुवोर्मध्ये यशस्विनी। नेत्रायोश्चित्र-नेत्रा च, यमघण्टा तु पार्श्वके।।23 शंखिनी चक्षुषोर्मध्ये, श्रोत्रयोर्द्वार-वासिनी। कपोलौ कालिका रक्षेत्, कर्ण-मूले च शंकरी।।24 नासिकायां सुगन्धा च, उत्तरौष्ठे च चर्चिका। अधरे चामृत-कला, जिह्वायां च सरस्वती।।25 दन्तान् रक्षतु कौमारी, कण्ठ-मध्ये तु चण्डिका। घण्टिकां चित्र-घण्टा च, महामाया च तालुके।।26 कामाख्यां चिबुकं रक्षेद्, वाचं मे सर्व-मंगला। ग्रीवायां भद्रकाली च, पृष्ठ-वंशे धनुर्द्धरी।।27 नील-ग्रीवा बहि:-कण्ठे, नलिकां नल-कूबरी। स्कन्धयो: खडि्गनी रक्षेद्, बाहू मे वज्र-धारिणी।।28 हस्तयोर्दण्डिनी रक्षेदिम्बका चांगुलीषु च। नखान् सुरेश्वरी रक्षेत्, कुक्षौ रक्षेन्नरेश्वरी।।29 स्तनौ रक्षेन्महादेवी, मन:-शोक-विनाशिनी। हृदये ललिता देवी, उदरे शूल-धारिणी।।30 नाभौ च कामिनी रक्षेद्, गुह्यं गुह्येश्वरी तथा। मेढ्रं रक्षतु दुर्गन्धा, पायुं मे गुह्य-वासिनी।।31 कट्यां भगवती रक्षेदूरू मे घन-वासिनी। जंगे महाबला रक्षेज्जानू माधव नायिका।।32 गुल्फयोर्नारसिंही च, पाद-पृष्ठे च कौशिकी। पादांगुली: श्रीधरी च, तलं पाताल-वासिनी।।33 नखान् दंष्ट्रा कराली च, केशांश्वोर्ध्व-केशिनी। रोम-कूपानि कौमारी, त्वचं योगेश्वरी तथा।।34 रक्तं मांसं वसां मज्जामस्थि मेदश्च पार्वती। अन्त्राणि काल-रात्रि च, पितं च मुकुटेश्वरी।।35 पद्मावती पद्म-कोषे, कक्षे चूडा-मणिस्तथा। ज्वाला-मुखी नख-ज्वालामभेद्या सर्व-सन्धिषु।।36 शुक्रं ब्रह्माणी मे रक्षेच्छायां छत्रेश्वरी तथा। अहंकारं मनो बुद्धिं, रक्षेन्मे धर्म-धारिणी।।37 प्राणापानौ तथा व्यानमुदानं च समानकम्। वज्र-हस्ता तु मे रक्षेत्, प्राणान् कल्याण-शोभना।।38 रसे रूपे च गन्धे च, शब्दे स्पर्शे च योगिनी। सत्वं रजस्तमश्चैव, रक्षेन्नारायणी सदा।।39 आयू रक्षतु वाराही, धर्मं रक्षन्तु मातर:। यश: कीर्तिं च लक्ष्मीं च, सदा रक्षतु वैष्णवी।।40 गोत्रमिन्द्राणी मे रक्षेत्, पशून् रक्षेच्च चण्डिका। पुत्रान् रक्षेन्महा-लक्ष्मीर्भार्यां रक्षतु भैरवी।।41 धनं धनेश्वरी रक्षेत्, कौमारी कन्यकां तथा। पन्थानं सुपथा रक्षेन्मार्गं क्षेमंकरी तथा।।42 राजद्वारे महा-लक्ष्मी, विजया सर्वत: स्थिता। रक्षेन्मे सर्व-गात्राणि, दुर्गा दुर्गाप-हारिणी।।43 रक्षा-हीनं तु यत् स्थानं, वर्जितं कवचेन च। सर्वं रक्षतु मे देवी, जयन्ती पाप-नाशिनी।।44 ।।फल-श्रुति।। सर्वरक्षाकरं पुण्यं, कवचं सर्वदा जपेत्। इदं रहस्यं विप्रर्षे ! भक्त्या तव मयोदितम्।।45 देव्यास्तु कवचेनैवमरक्षित-तनु: सुधी:। पदमेकं न गच्छेत् तु, यदीच्छेच्छुभमात्मन:।।46 कवचेनावृतो नित्यं, यत्र यत्रैव गच्छति। तत्र तत्रार्थ-लाभ: स्याद्, विजय: सार्व-कालिक:।।47 यं यं चिन्तयते कामं, तं तं प्राप्नोति निश्चितम्। परमैश्वर्यमतुलं प्राप्नोत्यविकल: पुमान्।।48 निर्भयो जायते मर्त्य:, संग्रामेष्वपराजित:। त्रैलोक्ये च भवेत् पूज्य:, कवचेनावृत: पुमान्।।49 इदं तु देव्या: कवचं, देवानामपि दुर्लभम्। य: पठेत् प्रयतो नित्यं, त्रि-सन्ध्यं श्रद्धयान्वित:।।50 देवी वश्या भवेत् तस्य, त्रैलोक्ये चापराजित:। जीवेद् वर्ष-शतं साग्रमप-मृत्यु-विवर्जित:।।51 नश्यन्ति व्याधय: सर्वे, लूता-विस्फोटकादय:। स्थावरं जंगमं वापि, कृत्रिमं वापि यद् विषम्।।52 अभिचाराणि सर्वाणि, मन्त्र-यन्त्राणि भू-तले। भूचरा: खेचराश्चैव, कुलजाश्चोपदेशजा:।।53 सहजा: कुलिका नागा, डाकिनी शाकिनी तथा। अन्तरीक्ष-चरा घोरा, डाकिन्यश्च महा-रवा:।।54 ग्रह-भूत-पिशाचाश्च, यक्ष-गन्धर्व-राक्षसा:। ब्रह्म-राक्षस-वेताला:, कूष्माण्डा भैरवादय:।।55 नष्यन्ति दर्शनात् तस्य, कवचेनावृता हि य:। मानोन्नतिर्भवेद् राज्ञस्तेजो-वृद्धि: परा भवेत्।।56 यशो-वृद्धिर्भवेद् पुंसां, कीर्ति-वृद्धिश्च जायते। तस्माज्जपेत् सदा भक्तया, कवचं कामदं मुने।।57 जपेत् सप्तशतीं चण्डीं, कृत्वा तु कवचं पुर:। निर्विघ्नेन भवेत् सिद्धिश्चण्डी-जप-समुद्भवा।।58 यावद् भू-मण्डलं धत्ते ! स-शैल-वन-काननम्। तावत् तिष्ठति मेदिन्यां, जप-कर्तुर्हि सन्तति:।।59 देहान्ते परमं स्थानं, यत् सुरैरपि दुर्लभम्। सम्प्राप्नोति मनुष्योऽसौ, महा-माया-प्रसादत:।।60 तत्र गच्छति भक्तोऽसौ, पुनरागमनं न हि। लभते परमं स्थानं, शिवेन सह मोदते ॐॐॐ।।61 ।।वाराह-पुराणे श्रीहरिहरब्रह्म विरचितं देव्या: कवचम्।।