ध्रुव कृत भगवत स्तुति - Druv krut Vishnu stuti
यॊऽन्तः प्रविश्य मम वाचमिमां प्रसुप्ताम् सञ्जीवयत्यखिलशक्तिधरः स्वधाम्ना ।
अन्यांश्च हस्तचरणश्रवणत्वगादीन् प्राणान्नमॊ भगवतॆ पुरुषाय तुभ्यम् ॥ १ ॥
एकस्त्वमॆव भगवन्निदमात्मशक्त्या मायाख्ययॊरुगुणया महादाद्यशॆषम् ।
सृष्ट्वानुविश्य पुरुषस्तदसद्गुणॆषु नानॆव दारुषु विभावसुवद्विभासि ॥ २ ॥
त्वद्दत्तया वयुनयॆदमचष्ट विश्वम् सुप्तप्रबुद्ध इव नाथ भवत्प्रपन्नः ।
तस्यापवर्ग्यशरणं तव पादमूलम् विस्मर्यतॆ कृतविदा कथमार्तबन्धॊ ॥ ३ ॥
नूनं विमुष्टमतयस्तव मायया तॆ यॆ त्वां भवाप्ययविमॊक्षणमन्यहॆतॊः ।
अर्चन्ति कल्पकतरुं कुणपॊपभॊग्य-मिच्छन्ति यत्स्पर्शजं निरयॆऽपि नृणाम् ॥ ४ ॥
या निर्वृतिस्तनुभृतां तव पादपद्म-ध्यानात् भवज्जनकथाश्रवणॆन वा स्यात् ।
सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत् किं त्वन्तकासि लुलितात् पततां विमानात् ॥ ५ ॥
भक्तिं मुहुः प्रवहतां त्वयि मॆ प्रसङ्गॊ भूयादनन्त महताममलाशयानाम् ।
येनाञ्जसॊल्बणमुरुव्यसनं भवाब्धिम् नॆष्यॆ भवद्गुणकथामृतपानमत्तः ॥ ६ ॥
तॆ न स्मरन्त्यतितरां प्रियमीश मर्त्यम् यॆ चान्वदः सुतसुहृद्गृहवित्तदाराः ।
ते त्वब्जनाभ भवदीय पदारविन्द-सौगन्ध्यलुब्धहृदयॆषु कृतप्रसङ्गाः ॥ ७ ॥
तिर्यङ्नगद्विजसरीसृपदॆवदैत्य-मर्त्यादिभिः परिचितं सदसद्विशॆषम् ।
रूपं स्थविष्ठमज तॆ महदाद्यनॆकम् नातः परं परम वॆद्मि न यत्र वादः ॥ ८ ॥
कल्पान्त एतदखिलं जठरॆण गृह्णन् शॆतॆ पुमान् स्वदृगनन्तसखस्तदङ्कॆ ।
यन्नाभिसिन्धुरुहकाञ्चनलॊकपद्म-गर्भॆ द्युमान् भगवतॆ प्रणतोऽस्मि तस्मै ॥ ९ ॥
त्वं नित्यमुक्तपरिशुद्धविबुद्ध आत्मा कूटस्थ आदिपुरुषो भगवांस्त्र्यधीशः ।
यद्बुध्यवस्थितिमखण्डितया स्वदृष्ट्या द्रष्टा स्थितावधिमखॊ व्यतिरिक्त आस्सॆ ॥ १० ॥
यस्मिन् विरुद्धगतयॊ ह्यनिशं पतन्ति विद्यादयॊ विविध शक्तयः आनुपूर्व्यात् ।
तत् ब्रह्म विश्वभवमॆकमनन्तमाद्यम् आन्दमात्रमविकारमहं प्रपद्यॆ ॥ ११ ॥
सत्याशिषो हि भगवंस्तव पादप्द्म-माशीस्तथानुभजतः पुरुषार्थमूर्तॆः ।
अप्येवमर्य भगवान् परिपाति दीनान् वाश्रेव वत्सकमनुग्रहकातरॊऽस्मान् ॥ १२ ॥