Chandi Kavach- श्री चण्डी कवच

Chandi Kavach- श्री चण्डी कवच

विनियोग : 

ॐ अस्य श्रीदेव्या: कवचस्य ब्रह्मा ऋषि:,

अनुष्टुप् छन्द:, ख्फ्रें चामुण्डाख्या महा-लक्ष्मी: देवता,

ह्रीं ह्रसौं ह्स्क्लीं ह्रीं ह्रसौं अंग-न्यस्ता देव्य: शक्तय:,

ऐं ह्स्रीं ह्रक्लीं श्रीं ह्वर्युं क्ष्म्रौं स्फ्रें बीजानि,

श्रीमहालक्ष्मी-प्रीतये सर्व रक्षार्थे च पाठे विनियोग:।

ऋष्यादि-न्यास

ब्रह्मर्षये नम: शिरसि,

अनुष्टुप् छन्दसे नम: मुखे,

ख्फ्रें चामुण्डाख्या महा-लक्ष्मी: देवतायै नम: हृदि,

ह्रीं ह्रसौं ह्स्क्लीं ह्रीं ह्रसौं अंग-न्यस्ता देव्य: शक्तिभ्यो नम: नाभौ,

ऐं ह्स्रीं ह्रक्लीं श्रीं ह्वर्युं क्ष्म्रौं स्फ्रें बीजेभ्यो नम: लिंगे,

श्रीमहालक्ष्मी-प्रीतये सर्व रक्षार्थे च पाठे विनियोगाय नम: सर्वांगे।

ध्यान

प्रथमं शैल-पुत्रीति, द्वितीयं ब्रह्म-चारिणी ।

तृतीयं चण्ड-घण्टेति, कूष्माण्डेति चतुर्थकम् ॥3॥

पंचमं स्कन्द-मातेति, षष्ठं कात्यायनी तथा ।

सप्तमं काल-रात्रीति, महागौरीति चाष्टमम् ॥4॥

नवमं सिद्धि-दात्रीति, नवदुर्गा: प्रकीर्त्तिता: ।

उक्तान्येतानि नामानि, ब्रह्मणैव महात्मना ॥5॥

अग्निना दह्य-मानास्तु, शत्रु-मध्य-गता रणे ।

विषमे दुर्गमे वाऽपि, भयार्ता: शरणं गता ॥6॥

न तेषां जायते किंचिदशुभं रण-संकटे ।

आपदं न च पश्यन्ति, शोक-दु:ख-भयं नहि ॥7॥

यैस्तु भक्त्या स्मृता नित्यं, तेषां वृद्धि: प्रजायते ।

प्रेत संस्था तु चामुण्डा, वाराही महिषासना ॥8॥

ऐन्द्री गज-समारूढ़ा, वैष्णवी गरूड़ासना ।

नारसिंही महा-वीर्या, शिव-दूती महाबला ॥9॥

माहेश्वरी वृषारूढ़ा, कौमारी शिखि-वाहना ।

ब्राह्मी हंस-समारूढ़ा, सर्वाभरण-भूषिता ॥10॥

लक्ष्मी: पद्मासना देवी, पद्म-हस्ता हरिप्रिया ।

श्वेत-रूप-धरा देवी, ईश्वरी वृष वाहना ॥11॥

इत्येता मातर: सर्वा:, सर्व-योग-समन्विता ।

नानाभरण-षोभाढया, नाना-रत्नोप-शोभिता: ॥12॥

श्रेष्ठैष्च मौक्तिकै: सर्वा, दिव्य-हार-प्रलम्बिभि: ।

इन्द्र-नीलैर्महा-नीलै, पद्म-रागै: सुशोभने: ॥13॥

दृष्यन्ते रथमारूढा, देव्य: क्रोध-समाकुला: ।

शंखं चक्रं गदां शक्तिं, हलं च मूषलायुधम् ॥14॥

खेटकं तोमरं चैव, परशुं पाशमेव च ।

कुन्तायुधं च खड्गं च, शार्गांयुधमनुत्तमम् ॥15॥

दैत्यानां देह नाशाय, भक्तानामभयाय च ।

धारयन्त्यायुधानीत्थं, देवानां च हिताय वै ॥16॥

नमस्तेऽस्तु महारौद्रे ! महाघोर पराक्रमे !

महाबले ! महोत्साहे ! महाभय विनाशिनि ॥17॥

त्राहि मां देवि दुष्प्रेक्ष्ये ! शत्रूणां भयविर्द्धनि |

प्राच्यां रक्षतु मामैन्द्री, आग्नेय्यामग्नि देवता ॥18॥

दक्षिणे चैव वाराही, नैऋत्यां खड्गधारिणी ।

प्रतीच्यां वारूणी रक्षेद्, वायव्यां वायुदेवता ॥19॥

उदीच्यां दिशि कौबेरी, ऐशान्यां शूल-धारिणी ।

ऊर्ध्वं ब्राह्मी च मां रक्षेदधस्ताद् वैष्णवी तथा ॥20॥

एवं दश दिशो रक्षेच्चामुण्डा शव-वाहना ।

जया मामग्रत: पातु, विजया पातु पृष्ठत: ॥21॥

अजिता वाम पार्श्वे तु, दक्षिणे चापराजिता ।

शिखां मे द्योतिनी रक्षेदुमा मूर्ध्नि व्यवस्थिता ॥22॥

मालाधरी ललाटे च, भ्रुवोर्मध्ये यशस्विनी ।

नेत्रायोश्चित्र-नेत्रा च, यमघण्टा तु पार्श्वके ॥23॥

शंखिनी चक्षुषोर्मध्ये, श्रोत्रयोर्द्वार-वासिनी ।

कपोलौ कालिका रक्षेत्, कर्ण-मूले च शंकरी ॥24॥

नासिकायां सुगन्धा च, उत्तरौष्ठे च चर्चिका ।

अधरे चामृत-कला, जिह्वायां च सरस्वती ॥25॥

दन्तान् रक्षतु कौमारी, कण्ठ-मध्ये तु चण्डिका ।

घण्टिकां चित्र-घण्टा च, महामाया च तालुके ॥26॥

कामाख्यां चिबुकं रक्षेद्, वाचं मे सर्व-मंगला ।

ग्रीवायां भद्रकाली च, पृष्ठ-वंशे धनुर्द्धरी ॥27॥

नील-ग्रीवा बहि:-कण्ठे, नलिकां नल-कूबरी ।

स्कन्धयो: खडि्गनी रक्षेद्, बाहू मे वज्र-धारिणी ॥28॥

हस्तयोर्दण्डिनी रक्षेदिम्बका चांगुलीषु च ।

नखान् सुरेश्वरी रक्षेत्, कुक्षौ रक्षेन्नरेश्वरी ॥29॥

स्तनौ रक्षेन्महादेवी, मन:-शोक-विनाशिनी ।

हृदये ललिता देवी, उदरे शूल-धारिणी ॥30॥

नाभौ च कामिनी रक्षेद्, गुह्यं गुह्येश्वरी तथा ।

मेढ्रं रक्षतु दुर्गन्धा, पायुं मे गुह्य-वासिनी ॥31॥

कट्यां भगवती रक्षेदूरू मे घन-वासिनी ।

जंगे महाबला रक्षेज्जानू माधव नायिका ॥32॥

गुल्फयोर्नारसिंही च, पाद-पृष्ठे च कौशिकी ।

पादांगुली: श्रीधरी च, तलं पाताल-वासिनी ॥33॥

नखान् दंष्ट्रा कराली च, केशांश्वोर्ध्व-केशिनी ।

रोम-कूपानि कौमारी, त्वचं योगेश्वरी तथा ॥34॥

रक्तं मांसं वसां मज्जामस्थि मेदश्च पार्वती ।

अन्त्राणि काल-रात्रि च, पितं च मुकुटेश्वरी ॥35॥

पद्मावती पद्म-कोषे, कक्षे चूडा-मणिस्तथा ।

ज्वाला-मुखी नख-ज्वालामभेद्या सर्व-सन्धिषु ॥36॥

शुक्रं ब्रह्माणी मे रक्षेच्छायां छत्रेश्वरी तथा ।

अहंकारं मनो बुद्धिं, रक्षेन्मे धर्म-धारिणी ॥37॥

प्राणापानौ तथा व्यानमुदानं च समानकम् ।

वज्र-हस्ता तु मे रक्षेत्, प्राणान् कल्याण-शोभना ॥38॥

रसे रूपे च गन्धे च, शब्दे स्पर्शे च योगिनी ।

सत्वं रजस्तमश्चैव, रक्षेन्नारायणी सदा ॥39॥

आयू रक्षतु वाराही, धर्मं रक्षन्तु मातर: ।

यश: कीर्तिं च लक्ष्मीं च, सदा रक्षतु वैष्णवी ॥40॥

गोत्रमिन्द्राणी मे रक्षेत्, पशून् रक्षेच्च चण्डिका ।

पुत्रान् रक्षेन्महा-लक्ष्मीर्भार्यां रक्षतु भैरवी ॥41॥

धनं धनेश्वरी रक्षेत्, कौमारी कन्यकां तथा ।

पन्थानं सुपथा रक्षेन्मार्गं क्षेमंकरी तथा ॥42॥

राजद्वारे महा-लक्ष्मी, विजया सर्वत: स्थिता ।

रक्षेन्मे सर्व-गात्राणि, दुर्गा दुर्गाप-हारिणी ॥43॥

रक्षा-हीनं तु यत् स्थानं, वर्जितं कवचेन च ।

सर्वं रक्षतु मे देवी, जयन्ती पाप-नाशिनी ॥44॥

फल-श्रुति

सर्वरक्षाकरं पुण्यं, कवचं सर्वदा जपेत् ।

इदं रहस्यं विप्रर्षे ! भक्त्या तव मयोदितम् ॥45॥

देव्यास्तु कवचेनैवमरक्षित-तनु: सुधी: ।

पदमेकं न गच्छेत् तु, यदीच्छेच्छुभमात्मन: ॥46॥

कवचेनावृतो नित्यं, यत्र यत्रैव गच्छति ।

तत्र तत्रार्थ-लाभ: स्याद्, विजय: सार्व-कालिक: ॥47॥

यं यं चिन्तयते कामं, तं तं प्राप्नोति निश्चितम् ।

परमैश्वर्यमतुलं प्राप्नोत्यविकल: पुमान् ॥48॥

निर्भयो जायते मर्त्य:, संग्रामेष्वपराजित: ।

त्रैलोक्ये च भवेत् पूज्य:, कवचेनावृत: पुमान् ॥49॥

इदं तु देव्या: कवचं, देवानामपि दुर्लभम् ।

य: पठेत् प्रयतो नित्यं, त्रि-सन्ध्यं श्रद्धयान्वित: ॥50॥

देवी वश्या भवेत् तस्य, त्रैलोक्ये चापराजित: ।

जीवेद् वर्ष-शतं साग्रमप-मृत्यु-विवर्जित: ॥51॥

नश्यन्ति व्याधय: सर्वे, लूता-विस्फोटकादय: ।

स्थावरं जंगमं वापि, कृत्रिमं वापि यद् विषम् ॥52॥

अभिचाराणि सर्वाणि, मन्त्र-यन्त्राणि भू-तले ।

भूचरा: खेचराश्चैव, कुलजाश्चोपदेशजा: ॥53॥

सहजा: कुलिका नागा, डाकिनी शाकिनी तथा ।

अन्तरीक्ष-चरा घोरा, डाकिन्यश्च महा-रवा: ॥54॥

ग्रह-भूत-पिशाचाश्च, यक्ष-गन्धर्व-राक्षसा: ।

ब्रह्म-राक्षस-वेताला:, कूष्माण्डा भैरवादय: ॥55॥

नष्यन्ति दर्शनात् तस्य, कवचेनावृता हि य: ।

मानोन्नतिर्भवेद् राज्ञस्तेजो-वृद्धि: परा भवेत् ॥56॥

यशो-वृद्धिर्भवेद् पुंसां, कीर्ति-वृद्धिश्च जायते ।

तस्माज्जपेत् सदा भक्तया, कवचं कामदं मुने ॥57॥

जपेत् सप्तशतीं चण्डीं, कृत्वा तु कवचं पुर: ।

निर्विघ्नेन भवेत् सिद्धिश्चण्डी-जप-समुद्भवा ॥58॥

यावद् भू-मण्डलं धत्ते ! स-शैल-वन-काननम् ।

तावत् तिष्ठति मेदिन्यां, जप-कर्तुर्हि सन्तति: ॥59॥

देहान्ते परमं स्थानं, यत् सुरैरपि दुर्लभम् ।

सम्प्राप्नोति मनुष्योऽसौ, महा-माया-प्रसादत: ॥60॥

तत्र गच्छति भक्तोऽसौ, पुनरागमनं न हि ।

लभते परमं स्थानं, शिवेन सह मोदते ॐॐॐ ॥61॥