श्री शनिकवचम् - Shree Shani Kavach

श्री शनिकवचम् - Shree Shani Kavach

अथ श्री शनिकवचम्

अस्य श्री शनैश्चरकवचस्तोत्रमंत्रस्य कश्यप ऋषिः ॥

अनुष्टुप् छन्दः ॥ शनैश्चरो देवता ॥ शीं शक्तिः ॥

शूं कीलकम् ॥ शनैश्चरप्रीत्यर्थं जपे विनियोगः ॥

निलांबरो नीलवपुः किरीटी गृध्रस्थितस्त्रासकरो धनुष्मान् ॥

चतुर्भुजः सूर्यसुतः प्रसन्नः सदा मम स्याद्वरदः प्रशान्तः ॥ १ ॥

ब्रह्मोवाच ॥

 श्रुणूध्वमृषयः सर्वे शनिपीडाहरं महत् ।

कवचं शनिराजस्य सौरेरिदमनुत्तमम् ॥ २ ॥

कवचं देवतावासं वज्रपंजरसंज्ञकम् ।

शनैश्चरप्रीतिकरं सर्वसौभाग्यदायकम् ॥ ३ ॥

ॐ श्रीशनैश्चरः पातु भालं मे सूर्यनंदनः ।

नेत्रे छायात्मजः पातु पातु कर्णौ यमानुजः ॥ ४ ॥

नासां वैवस्वतः पातु मुखं मे भास्करः सदा ।

स्निग्धकंठःश्च मे कंठं भुजौ पातु महाभुजः ॥ ५ ॥

स्कंधौ पातु शनिश्चैव करौ पातु शुभप्रदः ।

वक्षः पातु यमभ्राता कुक्षिं पात्वसितत्सथा ॥ ६॥

नाभिं ग्रहपतिः पातु मंदः पातु कटिं तथा ।

ऊरू ममांतकः पातु यमो जानुयुगं तथा ॥ ७ ॥

पादौ मंदगतिः पातु सर्वांगं पातु पिप्पलः ।

अङ्गोपाङ्गानि सर्वाणि रक्षेन्मे सूर्यनंदनः ॥ ८ ॥

इत्येतत्कवचं दिव्यं पठेत्सूर्यसुतस्य यः ।

न तस्य जायते पीडा प्रीतो भवति सूर्यजः ॥ ९ ॥

व्ययजन्मद्वितीयस्थो मृत्युस्थानगतोSपि वा ।

कलत्रस्थो गतो वापि सुप्रीतस्तु सदा शनिः ॥ १० ॥

अष्टमस्थे सूर्यसुते व्यये जन्मद्वितीयगे ।

कवचं पठतो नित्यं न पीडा जायते क्वचित् ॥ ११ ॥

इत्येतत्कवचं दिव्यं सौरेर्यनिर्मितं पुरा ।

द्वादशाष्टमजन्मस्थदोषान्नाशायते सदा ।

जन्मलग्नास्थितान्दोषान्सर्वान्नाशयते प्रभुः ॥ १२ ॥

 ॥ इति श्रीब्रह्मांडपुराणे ब्रह्म-नारदसंवादे शनैश्चरकवचं संपूर्णं