भारद्वाज शिक्षा - Bharadwaj Shiksha. Ancient Mantra of knowledge.

भारद्वाज शिक्षा - Bharadwaj Shiksha. Ancient Mantra of knowledge.

If you want to learn secret knowledge then you should read bharadwaj shiksha. It is a very ancient and rare mantra made available here for your benefit. If you have any request please write a comment and let us know.

भारद्वाजशिक्षा 1 गणेशं प्रणिपत्याहं संदेहानां निवृत्तये । शीक्षामनुप्रवक्ष्यामि वेदानां मूलकारणम् ।। 1 ।। 2 वृजने ज उदात्तश्चेदकारेण सहोच्यते । स्तुतं पदं तु वाक्यान्ते प्रचयं परिकीर्तितम् ।। 2 ।। 3 आ पञ्चमाद्धव्यपूर्वो घृतेनोर्ध्वश्च आहुतम् । वाक्यान्तोऽपि तथा प्रोक्तो यःपूर्वस्तु न विद्यते ।। 3 ।। 4 रादत् परशुरन्तोच्चे त्विङ्ग्यः पर्शुश्च भक्तिता । पर्षच्चेहातिपर्षाऽपि स्वरभक्तेस्तु नित्यता ।। 4 ।। 5 पापं-विलोम-पूर्वे चाकार्षं कार्षीत्तदादिषु । स्वरभक्तिं विजानीयान्नान्यवर्णोऽत्र संभवेत् ।। 5 ।। 6 अग्ने तान्नपते त्रींश्च त्रिष्टुभा चैवमाद्भवेत् । क्षिप्रा भर्त्र्य-यित्र्य-1रात्र्य-मन्त्र्य-पित्र्यापि काठके ।। 6 ।। 7 समाने तु पदे ह्रस्वाः सहल्रा विरळाश्च ये । जुष्टो वाचः प्रजाग्निंचि1 मानोमित्र उदस्त च ।। 7 ।। 8 अग्निर्वाव च देवा वै केशवापविधायकः । रक्षांसीत्यनुवाकेषु ह्यप्येतीकारवान्भवेत् ।। 8 ।। 9 छन्दा या ते-न बर्हिश्च इद्ध्या अग्ने बृहन्परे । यज्ञस्य पूर्व इष्ट्यै च त्विकारादिः प्रकीर्तितः ।। 9 ।। 10 अकारिषं च णः पूर्वो रीरिषो रीरिषन्नपि । तारिषच्चारिषं चेत् स्यात् स्वरभक्तिर्न विद्यते ।। 10 ।। 11 उपसर्गेषु पूर्वेषु त्वियुरित्यत्र विद्यते । जुष्टःप्रश्नकाण्डाच्छिद्रारण्यके मानुषी सईत् ।। 11 ।। 12 विनिष्पर्यसुरःपूर्वक्रीयेत्यत्र न ते परे । चातूरथस्यपूर्वान्यौ होत्री मप्त्री च दीर्घगौ ।। 12 ।। 13 पोत्री नेष्ट्री स्वस्री स्तोत्री शतरुद्री न णां परः । वरीयसी च पीयूषो दवीयोऽथ ह्रसीय च ।। 13 ।। 14 चीयते च द्वितीयश्च तृतीयादौ तथैव च । पीयति त्वस्तृतीयश्चावृकास्ते ऊर्ध्वगामीयुः ।। 14 ।। 15 स्वरोत्तरपपूर्वे तु शषहोर्ध्वे तु मध्यगः । रेफादुकार एव स्यात् स्वरभक्तिर्न विद्यते ।। 15 ।। 16 रादुत्वमरुषश्रुच्चेदरुहद्रुह चारुहम् । तिक्रुष्ट चक्रुषश्चक्रुः क्रुङ्ङ-मु-क्ष-द्ध-रोत्तरे ।। 16 ।। 17 प-ह-णा-म-त ऊर्ध्वे च त्वभि-मित्र-कपूर्वके । द्रुपदं वै द्रु ध्रुवाऽध्रुङ् नानादृत्य दृतिश्रुतिः ।। 17 ।। 18 दृशेऽनादृत्य दृषदः उद्दृष्ट उद्धृतोद्धृतः । च वि मे नम आ देवः स्तुहीह हवनेत्यसिस् ।। 18 ।। 19 वाजं वो वै सित स्वर्षिं तपो मे हृदये न च । गण् माच्योर्ध्व श्रुतः श्रुष्टी श्रुधी श्रुत् श्मश्रु शुश्रुवान् ।। 19 ।। 20 द्वित्वं चाप्यृतवो यज्ञो र्वतः पूर्वं श्रितः सइत् । परिन्ययो वचोर्ध्वे च स्रुति शब्दश्च सस्रुषः ।। 20 ।। 21 स्रुक् पदे स्रुह्युकारः स्यात्ससृवां स न विद्यते । षान्तः प्रुट् स्रुक्ति चोर्ध्वश्च वाग्भ्रू शुभ्रु च शत्रु च ।। 21 ।। 22 भ्रुमिं भ्रुविग्रुमुष्टिश्च क्षामन्रुरुच वव्रु रुत् । शतमित्त्यान् च मामस्मान् पूर्वं नीदुत्वमुच्यते ।। 22 ।। 23 जुह्वत्यप्याहि जुह्वेऽन्त्यस्वारो गृह्णोपभोत्तरे । उकारवान् जुह्वशब्दः संधानं परतो न चेत् ।। 23 ।। 24 देवानां त्वे क्रतुं चासौ यजमानेषु षात्तदुत् । भूतेभ्यः प्रोक्षति तस्माद्विभूर्देवायतः परे ।। 24 ।। 25 वृष्ट्यहृत ऋकारः स्याद् विवा यस्य ह ऋध्यते । अक्षरान्तऌकारो यः स्वरो ज्ञेयो विचक्षणैः ।। 25 ।। 26 उदाहृतः कॢप्तशब्दे न पदाद्यन्तयोः स्वरः । बद्धैने सा भवे मैच्च येन्त एकादशत्रयम् ।। 26 ।। 27 ग्नीपूर्वतो जुषेतां च प्रथमोऽञ्जन्तिसत्ययोः । येकेशिनः सऐकारो व्यैच्छन्नित्यत्र वर्णितः ।। 27 ।। 28 प्रैयमेधा आसन् नैयग्रोध-प्रैयंगवं यथा । दोहै यज्ञं च वैयाघ्रे दैयांपात्यैत्वगा इमे ।। 28 ।। 29 ब्रह्मवर्प्रेन्द्रियं चेन्द्रि पशून्वीर्यमनुपरः । मुखतो ज्योतिरूर्जाय एवास्मै चैवमैद् भवेत् ।। 29 ।। 30 त्रीन्, ब्रह्म व्यग्नि, चेन्द्राग्नी, मेदसैच्च पुरोहविः । एनौ विवा इन्द्रस्यायुरादावन्तेऽग्नयेऽन्नवत् ।। 30 ।। 31 स्फ्येन यां परि घर्मापनुत्त्यै तेषां पराणुत्त्यै । इत उत्तरं ककारादिप्रथमान् वक्ष्यामः । अन्तःस्थाभ्यः पवर्गाच्च स्वरेभ्यः पूर्वतः स्थितौ ।। 31 ।। 32 त्रिष्टुक् शब्दस्तथाऽनुष्टुक् ककारान्तावितीरितौ । अन्यत्र तु पकारान्तावेताविति विनिश्चितौ ।। 32 ।। 33 पूर्वस्य तु बिधेस्तत्र वैपरीत्यमिति स्थितिः ।। 33 ।। 34 चक्षे सू श्रद्धऊर्ध्वे क उत्करोऽन्तोच्च एव कः । विष्टुतं कृष्टशब्दश्च पच्योर्ध्वः षात् परस्तु टः ।। 34 ।। 35 त्वष्ट्रे वस्वग्नये प्रातर्मत्या अष्टाकपालमत् । वैश्वानरश्च जुष्टोऽम्बे शं नोऽग्निर्नश्च तारिषत् ।। 35 ।। 36 परापात्वेभ्यएवैनत् ब्रह्माद्येकाप एव तः । विदुषो हविषा चैनत् वेदत्पशुर्ऋतव्यतः ।। 36 ।। 37 थमेनात्मानं स्पृणुत स्पृणोति स्पृत सांहितः । प्राणानां स्पृत्यै द्वावेव लोकस्पृते ब्रह्मस्पृतम् ।। 37 ।। 38 सघा चतुर्थो नोदेऽसि सघ्यासं लान्यमेघ च । रघाऽनघाभ्य आघाऽघ प्रघातश्चैव मोघं च ।। 38 ।। 39 क्रियाशब्दश्च यत्रैव तदन्यो घन जङ्घ च । पुनस्तुवी प्रतूर्तिश्च त्वावतश्च बृहत्कृधि ।। 39 ।। 40 स्यन्दता ये वलं विद्म च नो वसु सुरेतसम् । पूर्वो मघः पितृशब्दः परो वा मघवश्रुतिः ।। 40 ।। 41 त्रीणि प्राणादि विश्वान्यो जिघाँसन् यो जघन्थ च । टवर्गेऽपि चतुर्थत्वं वोढवेत्यादिरुच्यते ।। 41 ।। 42 यदक्रन्दश्च दीध्यानो भिर्वस्तेधस्तु चर्तुधा । ब्रह्मन्पञ्चान्त्यमेधाश्च तनूवर्चपयोर्ध्वगः ।। 42 ।। 43 उपायज्ञो येत ईशा, जी, सी, सू, दक्षि, मेपरः । परि, स्यनः, पुनः, र्देहिवेद्यूर्ध्वे च चतुर्थकः ।। 43 ।। 44 यस्य स्वाहा परः चेद्वा कर्मण्यं श्रवणो वरम् । नयास्माकं यमो मे नो धाता वेदो मनस्ततः ।। 44 ।। 45 इन्द्रः पूर्वो ददात्वन्यः सुकुताद्युत्तरे च धः । तेनायुरेषां रूपाणां त्रयस्त्रिंशत्तथैव च ।। 45 ।। 46 श-म-स-प्र-च-नोर्ध्वश्च कामेनान्नात्परोऽपि च । चतुर्थ्यन्तपरोऽपि स्यादाभ्यो येऽध्वर्यवेऽपि च ।। 46 ।। 47 अग्नीधे ब्रह्मणे होत्रे चैनत् बर्हिषि दक्षिणाम् । तार्प्यं हिरण्यं वै धेनुमात्मना यश्चपूर्वकः ।। 47 ।। 48 ददातीति तृतीयत्वं तदन्यत्र च संपिबत् । या, मानोभ्रिं रुचन्नीं शूना, मन्नाद्यं, रभि स्वयम् ।। 48 ।। 49 यं सू द्धि, ची, न्द्रियं, दत्ते धेयमात्मन्न धो [मतु] । ब्रूह्यवसः, तुरीपं, थं जहि ओहैः , विक्षु, सप्रथाः ।। 49 ।। 50 शोचिरमुत्र भूयात् भूः श्रृण्वै रश्मिरनागसः । देवं भूयिष्ठभाजश्च सहध्यै पूर्वतस्त्वथ ।। 50 ।। 51 वमदाबसशत्राश्च सस्वरा गोकुरो अयः । स्वरपूर्वा अमीत्वाद्या अकाराद्यश्च तत्रधः ।। 51 ।। 52 रधामद्रधसी गाधं कॢधानधः षतोरधम् । क्षुधक्षोधुस्पृधोनाधै मागघं विवधादध ।। 52 ।। 53 वावृध वैमृध व्याध युधश्रुद्वीवृधादधुः । रुधश्रुदृणधन्नद्धो नाधमान रराध च ।। 53 ।। 54 गवीधुकस्रिध ग्रोधमिदधज्जनधाः षध । पदान्ते च धिकारोऽपि राधश्रुदवधिष्मच ।। 54 ।। 55 अधोनिष्ट्या वि घोषवद्युक्तः पदादिगस्त्वपि । अश्वाभिधानीमिषुधे त्वबाधन्त विबाध च ।। 55 ।। 56 कायाधवश्च निध च निर्बाधाबधिरोपि च । असाधयत गौधूमं गावीधुकमिति स्थितिः ।। 56 ।। 57 नाकारान्तवृथाद्युच्चा अर्थोऽर्थं तीर्थ पार्थ च । वीथोऽभागोर्थशब्दस्तु रूथ्यो निर्ऋथ एव च ।। 57 ।। 58 जगन्थ घन्थ ततन्थ दाधर्थ मो ववर्थ च । मेथीं मथित थायन्ति राथीतरो विमाथ च ।। 58 ।। 59 वेत्थावृथं चावृथाश्च जहर्थास्थ्ना तथैव च । अन्तोच्चकाविथेत्थौ च विसर्गान्तौ न चेच्छिथि ।। 59 ।। 60 ग्रमात्थ्नश्च विदथ्यं च कतियूरूपपूर्वकः ।। 60 ।। 61 श्रृं पं ग्रं मं च मां पूर्वः समाने तु चतुर्थ च । मथ्यमानो रथ्यस्वारः पृथ्वी राथन्तरोऽपि च ।। 61 ।। 62 फल फेन फणत् फर्व्य शफेभ्योऽन्यो भ उच्यते । वैशंभल्या च शीभादौ पवर्गे च चतुर्थगः ।। 62 ।। 63 अवाङिति ङकारान्तं नाभिमूर्ध्वं च सर्वदा । याच्ञैव च ञकारान्तमुपज्ञु च तथैव च ।। 63 ।। 64 कस्मा उप य रा जाच्च ने नवर्णात्परौ च ये । तपूर्वौ तपरौ स्यातां जञावन्यौ गनौ स्मृतौ ।। 64 ।। 65 भूयांस उनन्तशब्दोच्चशंस्तासूर्ध्वोंहोऽतंसयत् । उन्नवंशं स्त्रीषसादं सावन्यो मुखोच्चकः ।। 65 ।। 66 आताँसीच्छँसिने शँसन्नासिक्यो दुषदँ सदः । शब्दैक्ये रषपूर्वो णो व्योवेतो स्पृषतेः क्वचित् ।। 66 ।। 67 चर्मण् चर्षण् वृषण् शीर्षण् ब्रह्मण्णक्षण्णवग्रहे । वाणश्शताणवश्चापि मेण्यादौ प्राकृतश्च णः ।। 67 ।। 68 बस्तपूर्वपरो वृष्णि वृष्णा वृष्णश्च वृष्णियम् । रुन्धे हुकः पूर्वाद्यज्ञो विष्णुः कृष्णः क्रमोदितौ ।। 68 ।। 69 अन्तोऽनन्त्यं न वै इन्द्रस्तस्याप्रति न मध्यगम् । तार्प्य च रुन्धते त्वेषु दधते स्यात्परत्र तु ।। 69 ।। 70 एकैकस्त्रिवृदाग्नेयं विश्वा युञ्जन्ति चाग्नये । त्वं ह्यप वै न देवोर्ध्वे इन्द्रश्रत् पुर आदितः ।। 70 ।। 71 नवान्ये दधते विद्वाँसः साध्याः षडृतवो वै । पृथिव्यै जाजायन्तेन्य एष्वतिष्ठन्त इत्यपि ।। 71 ।। 72 कुसुरुबिन्दोऽप्रतिष्ठां च उत्क्रा प्रजापतिर्नव । आयुर्वा अन्त आदित्यं प्रजाग्निं तं प्र संततिः ।। 72 ।। 73 धिष्ण्याद्वितीयं च साकं देवस्य स्फयं तु बार्ह च । ब्रह्म द्वितीयतृतीये पुरुषं प्रतिपूरुषम् ।। 73 ।। 74 देवा मिथो देवस्याहं च्यवन्ते चैषु तद्विधिः । वाग्वा इन्द्रस्त्रिवृद्बर्हिर्नः प्रतिष्ठापयन्ति च ।। 74 ।। 75 विवा एता वप्रतिष्ठां तार्प्यं तृतीयतुर्ययोः । संततिर्यस्य युञ्जन्ति तार्प्येणासुर्यमन्तगम् ।। 75 ।। 76 प्रजापतिः शुक्रमादियत्पशुः समर्धयन्ति नः । साव्यूर्ध्वं त्र्यहा भवन्ति न प्रत्यङ् पृष्ठ्य आपृथि ।। 76 ।। 77 आद्या वैन्द्रमुक्षाऽऽग्नेयीं तयास्मिन्नप्रथत्परे । पूर्वो मेधा यालभन्त ह्यादन्तोऽस्ना भवेच्च नः ।। 77 ।। 78 ते भविष्यन्ति देवासुस्तेभ्यः षड्द्वा परश्च च्छन् । इन्द्रोऽगच्छदगच्छन्त्यसौ देवानां नेन्द्रियं तु छन् ।। 78 ।। 79 देवस्य रश, सावित्रं मेध्यानेवैना उच्यते । देवानाग्नउ पूर्वं तु समीच्येनान्निरन्तरम् ।। 79 ।। 80 स्यात्ते तास्तान्यथोनत्वं बहुश्रुति दधत्यपि । संवत्सरो द्वि साध्यर्तव आदित्याद्वे यथाऽजान् ।। 80 ।। 81 सुवरयाम चादित्याः प्रजापत्याङ्गिरोऽपि चेत् । भूत्वा पुरुष दामापि द्यावा शकुनि संश्रितम् ।। 81 ।। 82 तेन ब्रह्मान्तरेणोर्ध्वो हिरण्मयोऽत्र संस्मृतः । पारावगत्य बहूनामिवोर्ध्वः समनेऽपि मः ।। 82 ।। 83 वारुणोऽन्ते द्विरेवैनां इमेऽवन्ति च सप्तभिः । यजुषाग्नेः पुनः सृष्टीश्चैनां ब्रह्मा तु दीर्घतः ।। 83 ।। 84 पीवोन्नां प्रथमं चैव हरिं प्रथमजां च मः । अग्नये नासो, धात्रादि प्रजां वृद्धां च सर्वतः ।। 84 ।। 85 यामिति मुनिकाण्डे चाप्यर्धुकं स्याद्विसर्जयेत् । ऐत्वं हित्वा ष्यतोर्ध्वश्चत् अइमध्ये य एकतः ।। 85 ।। 86 निवृश्चत वृश्चतश्च अन्यो वृश्च्यत तेपरः । योनिः पुण्यो हवै योनिं तस्माद्गर्भो यजै महै ।। 86 ।। 87 महो य एष, स्य हिस्थ पूर्व ऋत्विय एव यः । यदग्ने तु यविष्ठ्यात्र सकारोर्ध्वो न होतयुक् ।। 87 ।। 88 उषसं चामृतं पूर्वे मर्त्यासोऽत्र य उच्यते । आकारान्तोरयिष्ठा च अस्तभ्नाद्द्यांदसंयुतम् ।। 88 ।। 89 विराज्येप्रत्यसद्देवा संवत्सर्तुविवै परः । मर्तेष्वयोग्निरूर्ध्वे तु पूर्वश्चाद्युच्चमिङ्ग्यगम् ।। 89 ।। 90 अन्तोदात्त सुवर्गश्च लोकशब्दपरेऽपि वा । वीर्यस्य नस्य चानात्यै राध्नुवन्त्यप्यरेफता ।। 90 ।। 91 युक्तोत्तमाच्च पूर्वं तु शब्दैक्ये नाऽनुनासिकः । मनोजयदु यत्पञ्च त्रयस्त्रिंशत् परोऽनुदत् ।। 91 ।। 92 आद्युदात्ते तथेङ्ग्यस्थे द्वित्वं वात्र ग्रहे गरौ । तव्याः ष्योर्ध्वेऽप्यृकारान्ते न मेधपतिसोत्तरे ।। 92 ।। 93 एवैनं च पतिं साक्षात्ताभिरन्तं मुखं तथा । ऋतेन मुखतः पूर्वो र स्यादारभतेऽन्वपि ।। 93 ।। 94 अगौः पूर्वे तु यज्ञं चान्वात्मानं वत्सरं तथा । यज्ञेनोर्ध्वो गृहीत्वा स्वात्तोर्ध्व आरभ्य रेफगः ।। 94 ।। 95 नरन् रभेत्वनारब्धोऽस्य प्रक्ष्यः प्रवतापि च । पशुमादित्रयं प्रक्षो देवा होत्रा च रोऽसमः ।। 95 ।। 96 अतप्यतपरः सोमश्चाद्याः पञ्च रुण्यतरः । सूर्यादित्यपयोधाता दूरादपि च सौर्यरः ।। 96 ।। 97 एक मैत्र जुहोत्यूर्ध्वो नाङ्ग्ध्यूर्ध्वो जरितार च । नासिक्यलत्वमध्ये वोऽन्यंव्लीनासंव्लियाय च ।। 97 ।। 98 दीर्घ प्रजावतीर्वश्च नक्षैकावं ग्रहावहै । त्रिसप्तग्राम्याः पशवो वस्व्यथैकात्रिवृत्परः ।। 98 ।। 99 स्वे भवेद्यतने धेये स्तोमे योनावृतौपरः । स्वया देवतयेत्यत्र ह्यैकारान्तः प्रकीर्तितः ।। 99 ।। 100 कषचाषजषाशब्दाः चषाल्ममाषवाजकः । षाट् चानवर्ण पूर्वः षण् नदकोर्ध्वो यथा मषम् ।। 100 ।। 101 सख्या श्रेष्ठः पदे स स्यादिध्यसेऽत्र स उच्यते । योऽसौ, चतुःससर्वेषां ; यद्यश्वा[प] समर्धयत् ।। 101 ।। 102 वीते एव च ते; ग्नीतौ अमीसामेव सेत्यपि । सत्रं केन वैपर्यन्तं एकसंख्याद्वयात्रयुक् ।। 102 ।। 103 छन्दो; देवा सुरास्तेन पूर्वं वृष्टिसनीः पशुः । यथाधत्त तृतीयान्ता यथावै मान्त वान्त च ।। 103 ।। 104 यत्पत्न्यादीन्द्र इष्टर्गो यजुषा छन्द इत्यपि । नो भ्रातृव्यस्य वृङ्क्ते स्यादात्मन् यज्ञस्य सं पच ।। 104 ।। 105 देवासुराब्रुवन्नादौ तथा दधत कीर्तितम् । सर्वा वयो वै ज्योतिष्मः कुरुते देवकद्रविण् ।। 105 ।। 106 तेऽस्मात् सृष्टाश्च नर्क्षैनान् पशून्परः पतिः पशून् । यावैतन्मेदपूर्वेद्युर्यज्ञं च मनसातनु ।। 106 ।। 107 तं सृप्र सोऽबिभेत्सोऽस्मात् सोऽश्वोऽग्निमसृजापि च । यशसर्तुक्षुरचिनुत पृथिव्यग्न्यचिकीषत ।। 107 ।। 108 अनुजावरं परं चैन्द्रं राजानं सोममेव च । सा सृष्टाश्वविराजं च सोऽग्निं च पुरुषं तथा ।। 108 ।। 109 स इन्द्रं तत्परो देवा सुरानिति च कीर्तितम् । सोऽस्मात्तं सृष्टमित्यस्मिन्नश्वमेधं परे तथा ।। 109 ।। 110 अग्निहोत्रं परे यज्ञान् देवान्ते पाप्मना परः । विश्वकर्मात ऊर्ध्वं तु व्यानं मध्यं परोंऽशुना ।। 110 ।। 111 न कस्त्वा वाक्यवद् ग्रन्थे न स्वाहोर्ध्वैकवाक्यके । प्रजा त्रिवृत् वसीयान् स्यात् पूर्वं तु स्वयमुत्तरा ।। 111 ।। 112 प्रदशहोतारं तेन द्वादशासुरपूर्वकम् । प्रान्याऽमुंपूर्वमम्भांसि सविता द्वयमध्यगम् ।। 112 ।। 113 अग्निद्वितीयतृतीये देवाश्चैवंपरद्वयम् । यावती प्रथमे तुर्ये यदेकेनादिगत्रयम् ।। 113 ।। 114 भूमिरादिद्वयं चास्मिंश्चामुष्मिँश्चेति सर्वतः । अन्त्यं तु ज्योतिरापो वा इमे वा एत एव च ।। 114 ।। 115 प्रजापती रक्षांस्येवप्रजापतिर्नवैषु च । आदौ नयति वित्तान्ववाणुशःशोयुनक्त्यमन् ।। 115 ।। 116 दर्भास्यास्माद्विशानीममब्राह्मण इति त्वतः । द्विरुद्वयस्यपस्याश्वसदृशत्रयमध्यगः ।। 116 ।। 117 द्वितीय ससृवांसोऽवधत्तामुत्तमं जुहुयात् । वेत्वाहाऽहंत्रिस्ते नन्दा आह्वयता च दिश्यति ।। 117 ।। 118 उत्तमए इकारान्ता रेफाच्च वर्णतः क्रमात् । व्युत्क्रमावस्यवान्या यत्सुभगा ददतु प्रियम् ।। 118 ।। 119 घृतभूतकृतावोच्च पृथिवीत्वारदब्रुवन् । रात्र्यस्यत्यत्यहश्चन्द्र वा योनिर्नवैष्यथः ।। 119 ।। 120 एतेनोक्तं न्यदाग्नेयः पशवोनो विचारथ । प्राणममृत आदित्यः सतनूपसृपानुवि ।। 120 ।। 121 तस्मा एत मवाचस्त्वा सजाता ह्याय चातिथिः । जुषन्तां पुष्कलेभिश्च स्यातां जीवांश्च तेजसा ।। 121 ।। 122 तेदक्षन्त पुरोडाशं दिशोऽस्माकं च दुष्करम् । विष्णोष्टभ्नाच्च दाधर्थ निर्घ्नन्ति यामि चेमि चेत् ।। 122 ।। 123 मये हनिधिना चोग्रमन्यस्तिग्मं च मष्मषा । पिप्रतोथो अधीयीत परिदत्तादमं फला ।। 123 ।। 124 द्विविषाद्यपिधानं च रोहोर्ध्वो, यजमान अत् । [दिशोऽस्माकं स्तवानि यत् सुभगा र्धूर्ददत्वपि । घृतभूतकृतावोच्चैः पृथिव्यै त्वारदब्रुवन् ।। रात्रियास्यत्यहश्चन्द्रा वा योनिर्न उपैष्यथ । तस्मा एत मवाचस्त्वा सजाता ह्याय चातिथिः ।। एते तस्यान्यदाग्नेयः पशवो न तथा विचि । अधरामृत आदित्यसतनूपसृष्ठानुवि ।। जुषन्तां पुष्कलेभ्येजज्जीवानस्माकं मामित । मयेह निधनोग्रमन्यस्तिग्मेन च मष्मषा ।। विष्णोऽष्टभ्नाच्च दाधर्थ निर्घ्नन्ति यामि चेमि च । ते दक्षन्त पुरोडाशं पिधानमसि दुष्करम् ।। पिप्रतोऽथोऽप्यधीयीत परिदत्तादिदं फला । तेजसाऽस्मै च संयन्तु अविग्राहं च विष्यताम् ।। परस्तादविषादी च अणुभिर्भासि रोह च । आसादयेदासवित्रे सशीर्ष्णा ह्याशिषोऽस्म च ।।] एवेति ह विसर्गौ च मध्ये चान्तेवयोप्युशन् ।। 124 ।। 125 देवा इन्द्रिय इदं वा इन्द्रोवृत्रा प्रकेतुना । या वां च पवमानोऽयं वावतृतीय इत्यपि ।। 125 ।। 126 द्वितीये तु प्रदेवं हि देवीः, प्राचीन, चैव चेत् । समिद्धो अग्निः संक्रूरं सुवर्दाक्षि च नान्यतः ।। 126 ।। 127 वैपरीत्यं वषट्कारः परा वैश्वानरोऽग्नये । देवस्याहं, च सर्वाणि, वयोघ्नन्ति नवापरः ।। 127 ।। 128 एकादशाग्निष्टोमं च ब्रह्म किं चैष वै विभूः । वास्तोरिन्द्रं चोपहूतं पूर्वं होताग्निमेव च ।। 128 ।। 129 प्रजापतेस्त्रयं सत्यं देवसवितर्यज्ञ एव च । ऋध्यते नीत आहुर्यो विश्व तद्धि सुवर्ग च ।। 129 ।। 130 चैनास्तास्वति छन्दांसि त्वपां नान्त्यं पशुष्वपि । देविका एतएवेति; संपैवैनास्तु माध्रुवा ।। 130 ।। 131 आत्पूर्वसमिधः; श्रोत्रं दाविधृतिः; र्वसिष्ठ तैः । त्वं सोन्ते तव मय्येषा त्वं सर्वः च ध्रुवोऽसि प्रिः ।। 131 ।। 132 यत्स्थले यादृशः शब्दः तादृशः परिकीर्तितः । विभक्तिलिङ्गरूपैश्च वर्णा ज्ञेया विचक्षणैः ।। 132 ।। 133 क्रम इंग्यः च कण्ठोक्ति यजुरादि पदद्वयम् । पदसांख्यं वर्णसांख्यमवधानाष्टकं बुधैः ।। 133 ।। 134 यो जानाति भरद्वाजशिक्षामर्थसमन्विताम् । स ब्रह्मलोकमाप्नोति गृहमेधी गृहं यथा ।। 134 ।। ।। भारद्वाजशिक्षा समाप्ता ।।